।। श्री सुक्त ।।

हरिः ॐ हिरण्यवर्णां हरिणीं सुवर्णरजतस्र​जाम्। चन्द्रां हिरण्मयीं लक्ष्मीं जातवेदो म आवह॥ १॥

तां म आवह जातवेदो लक्ष्मीमनपगामिनीम् । यस्यां हिरण्यं विन्देयं गामश्वं पुरुषानहम् ॥ २॥

अश्वपूर्वां रथमध्यां हस्तिनादप्रबोधिनीम् । श्रियं देवीमुपह्वये श्रीर्मादेवीर्जुषताम् ॥ ३॥

कां सोस्मितां हिरण्यप्राकारामार्द्रां ज्वलन्तीं तृप्तां तर्पयन्तीम् । पद्मे स्थितां पद्मवर्णां तामिहोपह्वये श्रियम् ॥ ४॥

चन्द्रां प्रभासां यशसा ज्वलन्तीं श्रियं लोके देवजुष्टामुदाराम् । तां पद्मिनीमीं शरणमहं प्रपद्येऽलक्ष्मीर्मे नश्यतां त्वां वृणे ॥ ५॥

आदित्यवर्णे तपसोऽधिजातो वनस्पतिस्तव वृक्षोऽथ बिल्वः। तस्य फलानि तपसानुदन्तु मायान्तरायाश्च बाह्या अलक्ष्मीः॥ ६॥

उपैतु मां देवसखः कीर्तिश्च मणिना सह । प्रादुर्भूतोऽस्मि राष्ट्रेऽस्मिन् कीर्तिमृद्धिं ददातु मे ॥ ७॥

क्षुत्पिपासामलां ज्येष्ठामलक्ष्मीं नाशयाम्यहम्। अभूतिमसमृद्धिं च सर्वां निर्णुद मे गृहात्॥ ८॥

गन्धद्वारां दुराधर्षां नित्यपुष्टां करीषिणीम्। ईश्वरीं सर्वभूतानां तामिहोपह्वये श्रियम्॥ ९॥

मनसः काममाकूतिं वाचः सत्यमशीमहि। पशूनां रूपमन्नस्य मयि श्रीः श्रयतां यशः॥ १०॥

कर्दमेन प्रजाभूता मयि सम्भव कर्दम। श्रियं वासय मे कुले मातरं पद्ममालिनीम्॥ ११॥

आपः सृजन्तु स्निग्धानि चिक्लीत वस मे गृहे । नि च देवीं मातरं श्रियं वासय मे कुले ॥ १२॥

आर्द्रां पुष्करिणीं पुष्टिं पिङ्गलां पद्ममालिनीम् । चन्द्रां हिरण्मयीं लक्ष्मीं जातवेदो म आवह ॥ १३॥

आर्द्रां यः करिणीं यष्टिं सुवर्णां हेममालिनीम् । सूर्यां हिरण्मयीं लक्ष्मीं जातवेदो म आवह ॥ १४॥

तां म आवह जातवेदो लक्ष्मीमनपगामिनीम्। यस्यां हिरण्यं प्रभूतं गावो दास्योऽश्वान् विन्देयं पुरुषानहम्॥ १५॥

यः शुचिः प्रयतो भूत्वा जुहुयादाज्य मन्वहम् । सूक्तं पञ्चदशर्चं च श्रीकामः सततं जपेत् ॥ १६॥

पद्मानने पद्म ऊरू पद्माक्षी पद्मसम्भवे। तन्मे भजसी पद्माक्षी येन सौख्यं लभाम्यहम्॥ १७॥

अश्वदायी गोदायी धनदायी महाधने । धनं मे लभतां देवि सर्वकामांश्च देहि मे ॥ १८॥

पद्मानने पद्मविपद्मपत्रे पद्मप्रिये पद्मदलायताक्षि । विश्वप्रिये विश्वमनोऽनुकूले त्वत्पादपद्यं मयि सन्निधत्सव ॥ १९॥

पुत्रपौत्र धनं धान्यं हस्त्यश्वादिगवे रथम् । प्रजानां भवसि माता आयुष्मन्तं करोतु माम् ॥ २०॥

धनमग्निर्धनं वायुर्धनं सूर्यो धनं वसुः। धनमिन्द्रो बृहस्पतिर्वरुणं धनमस्तु ते ॥ २१॥

वैनतेय सोमं पिब सोमं पिबतु वृत्रहा । सोमं धनस्य सोमिनो महां ददातु सोमिनः ॥ २२॥

न क्रोधो न च मात्सर्यं न लोमो नाशुमा मतिः । भवन्ति कृर्तपुण्यानां भक्तानां श्रीसूक्तं जपेत् ॥२३॥

सरसिजनिलये सरोजहस्ते धवलतरांशुकगन्धमाल्यशोभे । भगवति हरिवल्लभे मनोज्ञे त्रिभुवनभूतिकरि प्रसीद महांम् ॥२४॥

विष्णुपत्नीं क्षमां देवीं माधवीं माधवप्रियाम् । लक्ष्मीं प्रियसखीं देवीं नमाम्यच्युतवल्लभाम्॥ २५॥

महालक्ष्मी च विद्महे विष्णुपत्नी च धीमही । तन्नो लक्ष्मीः प्रचोदयात् ॥ २६॥

आनन्दः कर्दमः श्रीदश्चिक्लीत इति विश्रुताः । ऋषयः श्रियः पुत्राश्च मयि श्रीर्देवीर्देवता ॥ २७॥

ऋणरोगादिदारिद्र्यपापक्षुदपमृत्यवः। भयशोकमनस्तापा नश्यन्तु मम सर्वदा॥ २८॥

श्रीवर्चस्यमायुष्यमारोग्यमाविधात् पवमानं महियते । धान्यं धनं पशुं बहुपुत्रलाभं शतसंवत्सरं दीर्घमायुः ॥ २९॥

।। नारायण सुक्त ।।

सहस्र शीर्षं देवं विश्वाक्षं विश्वशंभुवम् । विश्वै नारायणं देवं अक्षरं परमं पदम् ॥

विश्वतः परमान्नित्यं विश्वं नारायणं हरिम् । विश्वं एव इदं पुरुषः तद्विश्वं उपजीवति ॥

पतिं विश्वस्य आत्मा ईश्वरं शाश्वतं शिवमच्युतम् । नारायणं महाज्ञेयं विश्वात्मानं परायणम् ॥

नारायण परो ज्योतिरात्मा नारायणः परः । नारायण परं ब्रह्म तत्त्वं नारायणः परः । नारायण परो ध्याता ध्यानं नारायणः परः ॥

यच्च किंचित् जगत् सर्वं दृश्यते श्रूयतेऽपि वा । अंतर्बहिश्च तत्सर्वं व्याप्य नारायणः स्थितः ॥

अनन्तं अव्ययं कविं समुद्रेन्तं विश्वशंभुवम् । पद्म कोश प्रतीकाशं हृदयं च अपि अधोमुखम् ॥

अधो निष्ठ्या वितस्त्यान्ते नाभ्याम् उपरि तिष्ठति । ज्वालामालाकुलं भाती विश्वस्यायतनं महत् ॥

सन्ततं शिलाभिस्तु लम्बत्या कोशसन्निभम् । तस्यान्ते सुषिरं सूक्ष्मं तस्मिन् सर्वं प्रतिष्ठितम् ॥

तस्य मध्ये महानग्निः विश्वार्चिः विश्वतो मुखः । सोऽग्रविभजंतिष्ठन् आहारं अजरः कविः ॥

तिर्यगूर्ध्वमधश्शायी रश्मयः तस्य सन्तता । सन्तापयति स्वं देहमापादतलमास्तकः । तस्य मध्ये वह्निशिखा अणीयोर्ध्वा व्यवस्थिताः ॥

नीलतोयद-मध्यस्थ-द्विद्युल्लेखेव भास्वरा । नीवारशूकवत्तन्वी पीता भास्वत्यणूपमा ॥

तस्याः शिखाया मध्ये परमात्मा व्यवस्थितः । स ब्रह्म स शिवः स हरिः स इन्द्रः सोऽक्षरः परमः स्वराट् ॥

।। श्री विष्णुषट्पदी स्तोत्रम ।।

अविनामपनाय विष्णो दमय मनः शमय विषयमृगतृष्णाम्। भूतदयां विस्तारय तारय संसारसागरतः ॥

दिव्यधुनीमकरन्देपरिमलपरिभोगसच्चिदानन्दे। श्रीपवतपदारविन्देभिभयखेदच्चिदेिन्दे॥

सत्यपि भेदपगमे नाथ त्वहं न मामकीनस्त्वम्। समुद्रो हि तरंगः क्वच्चन समुद्रो न तरंगः ॥

उद्धृतनाग नागभिदनुज दनुजकुलामित्र मित्रशशिदृष्टे। दृष्टे भवति प्रभावति न भवति किं भवतिरस्कारः ॥

मत्स्यादिभिर्वतारैवतारवताऽवत सदा वसुधम्। परमेश्वर परिपाल्यो भवता भवतापभीतोऽहम् ॥

दामोदर गुणमन्दिर सुन्दरवदनारविंद गोविंद। भजलधिमथनमन्दर परमं दरमपनय त्वं मे ॥

नारायण करुणामय शरणां करिावण तािकौ चरणौ । इवत षट्पदी मदीयेिदनसरोजेसदा वसतु॥

।। श्री मोहिनीराज पंचाष्टक ।।

ब्रम्हेन्द्रादी समस्त देव मिळूनी, विरोचना बोधिले । किंक्षीराब्धि मंथुनी दुर्लभ सुधा, काढोनी घ्यावा बळे ।। निष्पा निष्प तुम्हा आम्हा सहित, असा संकेत केला पहा। भक्ताची मनकामना पुरवि जो, तो मोहिनीराजा हा ॥ १ ॥

शेषेवेष्टुनी मंद्राचल बळे, भूमीहूनी आगळा काढिला । देवी दैत्यगणी महाश्रम वसे, सिंधुतटा आणिला ।। रजु वासुकिचा करूनि मथिता, नर्मग्न आद्री महा। पुष्टी कुर्म पणे गिरी उचलिला, तो मोहिनीराजा हा ॥ २ ॥

तो मंद्राचल डोलता न टिके, देवादिका दानवा। त्याचे मस्ताकि हस्त ठेवूनी उभा, ठाके स्वये ते धवा ।। आनंदे मथिता चतुर्दश शुभे, रत्ने निघाली पहा। वस्तु वाटुनि दे विभाग करूनी, तो मोहिनीराजा हा ॥ ३ ॥

दैत्यानी अमृतार्थ भांडोनि स्वये, युद्धासि आले बळे । तेव्हा त्वा मोहिनी रूप घेऊनी तया, शब्दामृते मोहिले ।। ताटांकिचा आयोग्य राहु वधिला, व्यक्ति जयाचा दहा। भक्ताची मनकामना पुरवि जो, तो मोहिनीराजा हा ॥ ४ ॥

भक्ती सौरभ पंचरत्न सुमने, पुष्पांजली अर्पिली। पायी मस्तक ठेविताशी करूणा, श्री मोहिनी तोषवी ।। आता इच्छित मागणे जरी तुम्हा, कामधेनू दुहा। भक्ता भिष्ट निवास नगरी जो, तो मोहिनीराजा हा ॥ ५॥

।। शिव मानस पूजा ।।

रत्नैः कल्पितमासनं हिमजलैः स्नानं च दिव्याम्बरं। नानारत्नविभूषितं मृगमदामोदाङ्कितं चन्दनम् । जातीचम्पकबिल्वपत्ररचितं पुष्पं च धूपं तथा। दीपं देव दयानिधे पशुपते हृत्कल्पितं गृह्यताम् ॥ १॥

सौवर्णे नवरत्नखण्डरचिते पात्रे घृतं पायसं। भक्ष्यं पञ्चविधं पयोदधियुतं रम्भाफलं पानकम् । शाकानामयुतं जलं रुचिकरं कर्पूरखण्डोज्ज्वलं ताम्बूलं मनसा मया विरचितं भक्त्या प्रभो स्वीकुरु ॥ २॥

छत्रं चामरयोर्युगं व्यजनकं चादर्शकं निर्मलं। वीणाभेरिमृदङ्गकाहलकला गीतं च नृत्यं तथा । साष्टाङ्गं प्रणतिः स्तुतिर्बहुविधा ह्येतत्समस्तं मया। सङ्कल्पेन समर्पितं तव विभो पूजां गृहाण प्रभो ॥३॥

आत्मा त्वं गिरिजा मतिः सहचराः प्राणाः शरीरं गृहं। पूजा ते विषयोपभोगरचना निद्रा समाधिस्थितिः । सञ्चारः पदयोः प्रदक्षिणविधिः स्तोत्राणि सर्वा गिरो । यद्यत्कर्म करोमि तत्तदखिलं शम्भो तवाराधनम् ॥४॥

करचरणकृतं वाक्कायजं कर्मजं वा। श्रवणनयनजं वा मानसं वापराधम्। विहितमविहितं वा सर्वमेतत्क्षमस्व। जय जय करुणाब्धे श्रीमहादेव शम्भो ॥५॥

Leave a Reply

Your email address will not be published. Required fields are marked *